411 REFERENCE · Wikipedia
भारतीपञ्चकम्
Reference material by Wikipedia contributors. This retains its source identity and is not 411 news reporting.
भारतीपञ्चकम्
( मातरं त्वां श्रियं भारतीं भावये )Dr. Narendra Maharshi भारतीपञ्चकम् Bharati Panchakam Stotra Saraswati Vandana Dr. Narendra Maharshi Musicmsrj 2026-02-13 https://www.youtube.com/watch?v=seje2qyoxkM 2026-02-18
वेदशास्त्रान्वयीं गानछन्दोमयीं,
चन्द्रमोभान्वयीं सूर्यतेजोमयीम् ।
दृङ्मयीं वाङ्मयीं देववन्द्यां सदा,
मातरं त्वां श्रियं भारतीं भावये ॥ १.॥
भुक्तिमुक्तिप्रदां शक्तिभक्तिप्रदां,
दैवदां नाददां सारदां शारदाम् |
गीतिदीप्तिप्रदां भावतीं पावनीं,
मातरं त्वां श्रियं भारतीं भावये ।।२.॥
सुस्मितां शुभ्रहंसाधिरूढां शुभां,
संस्कृतां शुभ्रकर्पूरकुन्दप्रभाम् ।
सुन्दरीं शुभ्रशीतांशुखण्डोज्वलां,
मातरं त्वां श्रियं भारतीं भावये ॥३.॥
शुभ्रवस्त्रान्वितां शुभ्रपद्मासनां,
पद्यगद्यात्मिकां कीर्तितां स्रग्विणीम् ।
शम्भुना केन कृष्णेन सम्पूजितां,
मातरं त्वां श्रियं भारतीं भावये ॥ ४.॥
वागधिष्ठातृदेवीं वसन्तप्रियां,
ग्रन्थबीजस्वरूपां विभां निर्मलाम् ।
अन्धकारान्वितान्न: परिष्कुर्वतीं,
मातरं त्वां श्रियं भारतीं भावये ॥५.॥
✍️ डॉ. नरेन्द्रमहर्षिः
प्राध्यापकः (व्याकरणशास्त्रम्) ,राजस्थानम्Dr. Narendra Maharshi भारतीपञ्चकम् Bharati Panchakam Stotra Saraswati Vandana Dr. Narendra Maharshi Musicmsrj 2026-02-13 https://www.youtube.com/watch?v=seje2qyoxkM 2026-02-18