Skip to main content

  | मौसम…

411 समाचार
Public archive edition · Attributed source reporting with original dates · AI drafts are excluded

411 REFERENCE · Wikipedia

गोविन्दाष्टकम्‌

Reference material by Wikipedia contributors. This retains its source identity and is not 411 news reporting.

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्रांगण-रिंगण-लोलमनायासं परमायासम्‌। मायाकल्पित-नानाकारमनाकारं भुवनाकारं क्ष्मामा नाथमनाथं प्रणमत गोविंद परमानन्दम्‌॥1॥ मृत्स्नामत्सीहेति यशोदाताडन्-शैशव-सन्त्रासं व्यादित-वक्त्रालोकित-लोकालोक-चतुर्दशलोकालिम्‌। लोक्त्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविंदं परमानन्दम्‌॥2॥ त्रैविष्टप-रिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं कैवल्यं नवनीताहारमनाहारं भुवनाहारम्‌। वैमल्य-स्फुटचेतोवृत्ति-विशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविंदं परमानन्दम्‌॥3॥ गोपालं भूलीलाविग्रहगोपालं कुलगोपालम्‌। गोपीखेलन-गोवर्धन-धृतिलीलालालित-गोपालम्‌। गोभिर्निगदित-गोविंद-स्फुटनामानं बहुनामान गोपीगोचरदूरं प्रणमत गोविंदं परमानन्दम्‌॥4॥ गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभं शश्वद्गोखुर-निर्धूतोधत्-धूलीधूसर-सौभाग्यम्‌। श्रद्धाभक्ति-गृहीतानन्दमचिन्त्यं चिन्तितसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्‌॥5॥ स्नानव्याकुल-योषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्राह्युपदातुमुलाकर्षन्तम्। निर्धूतद्वय-शोक-विमोहं बुद्धं बुद्धेरन्तस्थं | सत्तामात्रशरीरं प्रणमत गोविंदं परमानन्दम्‌॥6॥ कान्तं कारणकारणमादिमनादिं कालमनाभासं कालिन्दीगत-कालियशिरसि मुहुर्नृत्यन्तंनृत्यन्तम्‌। कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्‌॥7॥ वृंदावनभुवि वृंदारकगणवृन्दाराध्यं वन्देऽहं कुन्दाभामल-मन्दस्मेर-सुधानन्दं सुहृदानन्दम्‌। वन्द्याशेष-महामुनिमानस-वन्द्यानंन्द वन्देऽहं वन्द्याशेषगुणाब्धिं प्रणमत गोविंद परमानन्दम्‌॥8॥ गोविन्दाष्टकमेतदधीते गोविंदार्पितचेता यो गोविंदाच्युत माधव विष्णो गोकुल नायक कृष्णेति। गोविंदांघ्रिसरोज-ध्यानसुधाजल-धौतसमस्ताघो गोविन्दं परमानन्दामृतमन्तःस्थं स समभ्येति॥9॥ ॥ इति श्रीमच्छंकराचार्यविरचितं गोविन्दाष्टकं समाप्तम्‌ ॥ श्रेणी:कृष्ण