411 REFERENCE · Wikipedia
मन्त्रपुष्पाञ्जलि
Reference material by Wikipedia contributors. This retains its source identity and is not 411 news reporting.
Mantrapushpanjali
मन्त्रपुष्पाञ्जलि (मंत्रपुष्पांजली, मन्त्रपुष्पाञ्जलि), भारत में लोकप्रिय एक प्रार्थना है जिसमें वेदों के चार मन्त्र हैं। आरती के पश्चात् मन्त्रपुष्पाञ्जलि गाकर प्रार्थना समाप्त की जाती है।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् /
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १ ॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे /
स मे कामान्कामकामाय मह्यम् कामेश्वरो वैश्रवणो ददातु /
कुबेराय वैश्रवणाय महाराजाय नमः ॥ २ ॥
ॐ स्वस्ति / साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्सार्वभौमः सार्वायुष
आंतादापरार्धात्पृथिव्यै समुद्रपर्यंताया एकराळिति ॥ ३ ॥
तदप्येषः श्लोको ऽभिगीतो / मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे /
आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ॥ ४ ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् /
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑: ॥ ५ ॥
सन्दर्भ
श्रेणी:महाराष्ट्र की संस्कृति